अमरकोशः


श्लोकः

घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ । प्रत्यूषोऽहर्मुखं कल्यमुषः प्रत्युषसी अपि ॥ २ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 घस्र घस्रः पुंलिङ्गः घसत्यन्धकारम् । रक् उणादिः अकारान्तः
2 दिन दिनम् नपुंसकलिङ्गः दीयते क्षीणं भवति । नक् उणादिः अकारान्तः
3 अहन् अहः नपुंसकलिङ्गः न जहाति । कनिन् उणादिः नकारान्तः
4 दिवस दिवसः पुंलिङ्गः, नपुंसकलिङ्गः दीयते क्षीणं भवति । असच् उणादिः अकारान्तः
5 वासर वासरः पुंलिङ्गः, नपुंसकलिङ्गः वासयति । अर उणादिः अकारान्तः
6 प्रत्यूष प्रत्यूषः पुंलिङ्गः प्रत्यूषति रुजति कामुकान् । कृत् अकारान्तः
7 अहर्मुख अहर्मुखः नपुंसकलिङ्गः अह्नो मुखम् । तत्पुरुषः समासः अकारान्तः
8 कल्य कल्यम् नपुंसकलिङ्गः कलयति चेष्टाम् । यक् उणादिः अकारान्तः
9 उषस् उषः नपुंसकलिङ्गः ओषत्यन्धकारम् । असि उणादिः सकारान्तः
10 प्रत्युषस् प्रत्युषः नपुंसकलिङ्गः ओषत्यन्धकारम् । तत्पुरुषः समासः सकारान्तः
11 प्रभात प्रभातम् नपुंसकलिङ्गः भातुं प्रवृत्तम् । क्त कृत् अकारान्तः