दिनम्

सुधाव्याख्या

दीयते क्षीणं भवति । 'दीङ् क्षये ’ (दि० आ० अ०) दिवादिः । 'इणसिञ्जीदीङ् - (उ० ३.२) इति नक् । बाहुलकाद्द्मस्वः । द्यति तमो, निर्व्यापारस्थितिं चेति वा । द्यते: किनन् (उ० २.४९) ।


प्रक्रिया

धातुः - दीङ् क्षये


दी - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
दी + नक् - इण्सिञ्जिदीङुष्यविभ्यो नक् (३.२) । उणादिसूत्रम् ।
दी + न - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
दिन - बाहुलकात् ।
दिन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दिन + अम् - अतोऽम् 7.1.24
दिनम् - अमि पूर्वः 6.1.107