अहः

सुधाव्याख्या

न जहाति । नञि जहातेः (उ० १.१५८) इति कनिन् । रोऽसुपि (८.२.६९) इति रः । यतु--'अहन्’ (८२६८) इति रुत्वम् - इति मुकुटेनोक्तम् । तन्न । रत्वस्य रुत्वापवादत्वात् ।


प्रक्रिया

धातुः - ओँहाक् त्यागे


हा - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
हा - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
नञ् + हा + कनिन् - नञि जहातेः (१.१५८)। उणादिसूत्रम् ।, नञ्‌ 2.2.6
नञ् + हा + अन् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
न + हा + अन् - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अ + हा + अन् - नलोपो नञः 6.3.73
अ + ह् + अन् - आतो लोप इटि च 6.4.64
अहन् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अहन् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अहन् स्वमोर्नपुंसकात्‌ 7.1.23
अहन् - प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62
अहरु - रोऽसुपि 8.2.69
अहर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अहः - खरवसानयोर्विसर्जनीयः 8.3.15