घस्रः

सुधाव्याख्या

घस्र इति । घसत्यन्धकारम् । 'घस्लृ अदने’ (भ्वा० प० अ०) । 'स्फायित-' (उ० २.१३) इति रक् । 'घस्रस्तु दिवसे हिंस्रे ॥


प्रक्रिया

धातुः - घसॢँ अदने


घस् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
घस् + रक् - स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदिखिदिछिदिभिदि-मन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् (२.१३) । उणादिसूत्रम् ।
घस्र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
घस्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
घस्र + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
घस्र + रु - ससजुषो रुः 8.2.66
घस्र + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
घस्रः - खरवसानयोर्विसर्जनीयः 8.3.15