कल्यम्

सुधाव्याख्या

कलयति चेष्टाम् । अघ्नयादयश्च' (उ० ४.११२) इति कलेर्यक् । ततः प्रज्ञाद्यणि (५.४.३८) काल्यम्, अपि । कल्यं प्रभाते क्लीबं स्यात्कल्यो वाक्श्रुतिवर्जिते । सज्जनीरोगक्षेषु कल्याणवचनेऽपि च ॥ उपायवचनेऽपि स्यात्त्रिषु मद्ये तु योषिति' ।