प्रत्यूषः

सुधाव्याख्या

प्रत्यूष इति । प्रत्यूषति रुजति कामुकान् । 'ऊष रुजायाम्' (भ्वा० प० से०) । ‘इगुपध-' (३.१.१३५) इति कः । ‘प्रत्यूषोऽहर्मुखे वसौ’ ।