अमरकोशः


श्लोकः

दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः । हेतुर्ना कारणं बीजं निदानं त्वादिकारणम् ॥ २८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दैव दैवम् पुंलिङ्गः, नपुंसकलिङ्गः देवादागतम् । ‘ अण् तद्धितः अकारान्तः
2 दिष्ट दिष्टम् पुंलिङ्गः, नपुंसकलिङ्गः दिश्यते उपदिश्यते स्म । क्त कृत् अकारान्तः
3 भागधेय भागधेयम् पुंलिङ्गः, नपुंसकलिङ्गः भाग एव । धेय तद्धितः अकारान्तः
4 भाग्य भाग्यम् पुंलिङ्गः, नपुंसकलिङ्गः भज्यते । ण्यत् कृत् अकारान्तः
5 नियति नियतिः स्त्रीलिङ्गः नियम्यतेऽनया । क्तिन् कृत् इकारान्तः
6 विधि विधिः पुंलिङ्गः विधीयतेऽनेन कि कृत् इकारान्तः
7 हेतु हेतुः पुंलिङ्गः हिनोति व्याप्नोति कार्यम् । तुन् उणादिः उकारान्तः
8 कारण कारणम् नपुंसकलिङ्गः कार्यतेऽनेन ल्युट् कृत् अकारान्तः
9 बीज बीजम् नपुंसकलिङ्गः विशेषेण जायतेऽनेन । कृत् अकारान्तः
10 निदान निदानम् नपुंसकलिङ्गः नितरां दीयतेऽसाधारणतया जन्यतेऽनेन । ल्युट् कृत् अकारान्तः
11 आदिकारण आदिकारणम् नपुंसकलिङ्गः आदिर्मुख्यं कारणम् । तत्पुरुषः समासः अकारान्तः