दिष्टम्

सुधाव्याख्या

दिश्यते उपदिश्यते स्म । दिश अतिसर्जने (तु० उ० अ०) । क्तः (३.२.१०२) । ‘भाग्यैकदेशयोर्भाग:’ इति रुद्रः । भाग एव । ‘भागरूपनामभ्यो धेय:’ (वा० ५.४.३५) । (भागधेयं मतं भाग्ये भागप्रत्यययोः पुमान्)