नियतिः

सुधाव्याख्या

नियम्यतेऽनया । क्तिन् (३.३.९४) । नियच्छति । क्तिच् क्तौ च (३.३.१७४) इति क्तिज् वा । अत एव ‘स्त्री’ इति विधानं सार्थकम् । ‘नियतिर्नियमे दैवे' इति विश्व: ।