बीजम्

सुधाव्याख्या

विशेषेण जायतेऽनेन । 'उपसर्गे च संज्ञायाम्’ (३.२.९९) इति ड: । ‘अन्येषामपि-(६.३.१३७) इति दीर्घः । यद्वा वीयते । ‘व्येञ् संवरणे’ (भ्वा० उ० अ०) । संपदादि क्विप् (वा० ३.३.१०८) वियं संवृतं जायते जनयति । अन्तर्भावितण्यर्थः । अन्येष्वाप-’ (३.१.१०१) इति ड: । विशेषेण ए: कामात्, इना वा जायते । विशिष्टा ई लक्ष्मीर्जायतेऽस्मादिति वा । वजति कार्य गच्छति । ‘वज गतौ (भ्वा० प० से०) । अच् (३.१.१३४) । पृषोदरादित्वात् (६.३.१०९) ईत्वम् । वबयोरभेदाद्वीजम् । ‘बीजं तु रेतसि स्यादाधाने च तत्त्वे च हेतावङ्कुरकारणे' इति हैम: ।