कारणम्

सुधाव्याख्या

कार्यतेऽनेनण्यन्ताल्ल्युट् (३.३.११७) । करोतीति 'ल्युट् च' (३.३.११५) इति चकाराल्ल्युट् इति मुकुटस्त्वसंगतः । 'कारणं घातने हेतौ करणे, कारणा पुनः । यातना कार्मणं मन्त्रादियोगे कर्मकारके’ इति हैम: ।