अमरकोशः


श्लोकः

स्यादानन्दथुरानन्दः शर्मशातसुखानि च । श्व:श्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ २५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आनन्दथु आनन्दथुः पुंलिङ्गः अथुच् कृत् उकारान्तः
2 आनन्द आनन्दः पुंलिङ्गः घञ् कृत् अकारान्तः
3 शर्मन् शर्म नपुंसकलिङ्गः शृणात्यशुभम् । मनिन् उणादिः नकारान्तः
4 शात शातः नपुंसकलिङ्गः श्यति दुःखम् । तन् उणादिः अकारान्तः
5 सुख सुखम् नपुंसकलिङ्गः शोभनानि खान्यनेन । तत्पुरुषः समासः अकारान्तः
6 श्व:श्रेयस् श्व:श्रेयसम् नपुंसकलिङ्गः श्व आगामि श्रेयोऽत्र । तत्पुरुषः समासः सकारान्तः
7 शिव शिवम् नपुंसकलिङ्गः शेतेऽनेन । वन् उणादिः अकारान्तः
8 भद्र भद्रम् नपुंसकलिङ्गः भन्दते । रन् उणादिः अकारान्तः
9 कल्याण कल्याणम् नपुंसकलिङ्गः कल्यं नीरुजत्वमाणयति । तत्पुरुषः समासः अकारान्तः
10 मङ्गल मङ्गलम् नपुंसकलिङ्गः मङ्गति, मङ्गयते वा । अलच् उणादिः अकारान्तः
11 शुभ शुभम् नपुंसकलिङ्गः शोभते । कृत् अकारान्तः