शातः

सुधाव्याख्या

श्यति दुःखम् । ’शो तनूकरणे’ (दि० प० अ०) । बाहुलकात्तन् (उ० ३.८५) भावे वा । यत्तु श्यतेः सौत्रात् - इत्युक्तं मुकुटेन तन्न । तस्य गणपठितत्वात् । सौत्रस्य तस्यादर्शनात् । ‘अनुपसर्गाल्लिम्प' (३१.१३८) इति सूत्रपठितात् ‘सातेः’ पचाद्यचि (३.१.१३४) ‘सातम्’ दन्त्यादि । यत्तु — सिनोत्यशुभम् । सातम् । षै क्षये (भ्वा० प० अ०) – इत्युक्तं मुकुटेन । तन्न । सिनोतीति विगृह्योक्तधातूपन्यासस्य विरुद्धत्वात् । यदपि - स्यति दुःखम् । सातम् । ‘षोऽन्तकर्मणि’ (दि० प० अ०) - इति स्वामिनोक्तम् । तदपि न । स्यतेः क्ते ‘द्यतिस्यति-(७.४.४०) इतीत्वप्रसङ्गात् । तनस्त्वविधानात् । बाहुलकस्य त्वगतिकगतित्वात् । अत्र तूक्तगतेः सत्त्वात् ॥