शिवम्

सुधाव्याख्या

शेतेऽनेन । शिवम् । ‘शीड् स्वप्ने’ (अ० आ० से०) । ‘खर्वनिघृष्व-' (उ० १.१५३) इति वन्, ह्रस्वश्च निपातितः । शिवं तु मोक्षे क्षेमे सुखे जले । शिवो योगान्तरे वेदे गुग्गुलौ बालके हरे । पुण्डरीकद्रुमे कीले' ॥


प्रक्रिया

धातुः - शीङ् स्वप्ने


शी - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शि + वन् - सर्वनीघृष्वरिष्वलष्वशिवपट्वप्रह्वेष्वा अस्वतन्त्रे (१.१५३) । उणादिसूत्रम् ।
शिव - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शिव + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शिव + अम् - अतोऽम् 7.1.24
शिवम् - अमि पूर्वः 6.1.107