श्व:श्रेयसम्

सुधाव्याख्या

श्व आगामि श्रेयोऽत्र । श्वःश्रेयसम् । ‘श्वसो वसीयः श्रेयसः’ (५.४.८०) इत्यच् समासान्तः । ‘श्वःश्रेयसं तु कल्याणे परमात्मनि शर्मणि' ॥ श्वोवसीयसमपि बोध्यम् ।


प्रक्रिया

श्वस् + सु + श्रेयस् + सु - मयूरव्यंसकादयश्च 2.1.72
श्वस् + श्रेयस् - सुपो धातुप्रातिपदिकयोः 2.4.71
श्वस् + श्रेयस् + अच् - श्वसो वसीयःश्रेयसः 5.4.80
श्वस् + श्रेयस् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
श्वरुँ + श्रेयस् + अ - ससजुषो रुः 8.2.66
श्वर् + श्रेयस् + अ - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
श्वः + श्रेयस् + अ - खरवसानयोर्विसर्जनीयः 8.3.15
श्वःश्रेयस + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
श्वःश्रेयस + अम् - अतोऽम् 7.1.24
श्वःश्रेयसम् - अमि पूर्वः 6.1.107