भद्रम्

सुधाव्याख्या

भन्दते । ‘भदि कल्याणे' (भ्वा० आ० से०) । 'ऋज्रेन्द्र (उ० २.२८) इति रन् निपात्यते । ‘भद्रः शिवे खञ्जरीटे वृषभे च कदम्बके । करिजातिविशेषे ना क्लीबं मङ्गलमुस्तयोः । काञ्चने च स्त्रियां रास्नाकृष्णाव्योमनदीषु च । तिथिभेदे प्रसारिण्यां कट्फलानन्तयोरपि । ‘त्रिषु श्रेष्ठे च साधौ च न पुंसि करणान्तरे’ ॥ पचाद्यचि (३.१.१३४) भन्दम् । ‘भन्दं भद्रं शिवं तथा’ इति त्रिकाण्डशेष: । (भन्दं कल्याणे सौख्ये च)


प्रक्रिया

धातुः - भदिँ कल्याणे सुखे च


भद् - उपदेशेऽजनुनासिक इत् 1.3.2
भन्द् - इदितो नुम् धातोः 7.1.58
भद् + रन् - ऋज्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवम्रेरामालाः (२.२८) । उणादिसूत्रम् ।
भद् + र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
भद्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
भद्र + अम् - अतोऽम् 7.1.24
भद्रम् - अमि पूर्वः 6.1.107