एडूकम्

सुधाव्याख्या

एडूकमिति । यत् कुड्यं मध्यन्यस्तास्थि तत् ईड्यते । ‘ईड स्तुतौ’ (अ० आ० से०) । ‘उलूकादयश्च' (उ० ४.४१) साधु । 'भवेदेडोकमेडूकमेडुकं च' इति द्विरूपकोशः ।