गेहम्

सुधाव्याख्या

गेन गणेशेन ईह्यते काम्यते । ‘ईह चेष्टायाम्' (भ्वा० आ० से०) । कर्मणि घञ् (३.३.१९) । गो गणेशो गन्धर्वो वा ईह ईप्सितो यस्मिन्वा । 'गेहमस्त्री, शालासभे स्त्रियाम्' इति वाचस्पतिः ॥