गृहावग्रहणी

सुधाव्याख्या

गृहेति । गृहमवगृह्यतेऽनया । ‘ग्रह उपादाने’ (क्र्या० उ० से०) । करणा-' (३.३.११७) इति ल्युट् ॥


प्रक्रिया

धातुः - ग्रहँ उपादाने


ग्रह् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गृह + अम् + अव + ग्रह् + ल्युट् - करणाधिकरणयोश्च 3.3.117, उपपदमतिङ् 2.2.19
गृह + अव + ग्रह् + ल्युट् - सुपो धातुप्रातिपदिकयोः 2.4.71
गृह + अव + ग्रह् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
गृह + अव + ग्रह् + अन - युवोरनाकौ 7.1.1
गृह + अवग्रहण - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
गृहावग्रहण - अकः सवर्णे दीर्घः 6.1.101
गृहावग्रहण + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
गृहावग्रहण + ई - लशक्वतद्धिते 1.3.8, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
गृहावग्रहण् + ई - यस्येति च 6.4.148
गृहावग्रहणी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गृहावग्रहणी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गृहावग्रहणी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68