शिला

सुधाव्याख्या

अध इति । शिलति । शिल उच्छे' (तु० प० से०) । ‘इगुपध-' (३.१.११५) इति कः । शिल उञ्छे स्त्रियां ग्रावद्वाराधःस्थितदारुणोः’ इति तालव्यादौ रभसः । ‘तलदारु शिली योषित् नासा दारूर्वमस्य यत्’ इति बोपालितात् शिली’ इत्यपि ॥