अङ्गणम्

सुधाव्याख्या

अङ्गमिति । अङ्गत्यत्र । 'अगि गतौ (भ्वा० प० से०) । करणा- (३.३.११७) इति ल्युट् । अङ्गनं प्राङ्गणे याने कामिन्यामङ्गना मता' इति नान्तवर्गे विश्वः । ‘अङ्गणम्’ इति पाठे तु पृषोदरादिः (६.३.१०९) ॥