देहली

सुधाव्याख्या

देहनम् । दिह उपचये' (अ० उ० अ०) । भावे घञ् (३.३.१८) । देहं गोमयाद्युपलेपं लाति । 'ला दाने’ (अ० प० अ०) । आतोऽनुप-’ (३.२.३) इति कः । गौरादिः (४.१.४१) ॥


प्रक्रिया

धातुः - दिहँ उपचये , ला आदाने


दिहँ उपचये
दिह् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दिह् + घञ् भावे 3.3.18
दिह् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
देह - पुगन्तलघूपधस्य च 7.3.86
ला आदाने
देह + अम् + ला + क - आतोऽनुपसर्गे कः 3.2.3
देह + ला + क - सुपो धातुप्रातिपदिकयोः 2.4.71
देह + ला + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
देह + ल् + अ - आतो लोप इटि च 6.4.64
देहल + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
देहल + ई - लशक्वतद्धिते 1.3.8, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
देहल् + ई - यस्येति च 6.4.148
देहली + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
देहली + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
देहली - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68