हरिद्रा

सुधाव्याख्या

हरिं वर्णं द्राति । ‘द्रा कुत्सायां गतौ' (अ० प० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः । हरिभिर्द्रूयते वा । हरितं द्रवति वा । ‘द्रु गतौ' (भ्वा० प० अ०) । ‘अन्येभ्योऽपि-' (वा० ३.२.१०१) इति डः ॥