पीता

सुधाव्याख्या

पीयते स्म । ‘पीङ् पाने' (दि० आ० अ०) । ‘पा पाने' (भ्वा० प० अ०) । कर्मणि क्तः (३.२.१०२) । ‘घुमास्था-' (६.४.६६) इतीत्वम् । ‘पीतो वर्णनिपीतयोः । पीता हरिद्रा' इति हैमः ॥