अक्षीवम्

सुधाव्याख्या

सेति । समुद्रे भवम् । ‘तत्र भवः’ (४.३.५३) इत्यण् । ‘सामुद्रं लवणान्तरे । लक्षणे च शरीरस्य' इति हैमः । लुनाति । ‘लूञ् छेदने’ (क्र्या० उ० से०) । नन्द्यादित्वात् (३.१.१३४) ल्युः । ‘लवणाल्लुक्' (४.४.२४) इति निपातनाण्णत्वम् । ‘लवणं सैन्धवादौ ना सिन्धुरक्षोभिदो रसे । तद्युक्ते वाच्यलिङ्गः स्यान्नदीभेदद्विषोः स्त्रियाम्’ (इति मेदिनी) । अक्ष्ण ई । अक्षीं वाति, वायति, वा । ‘वा गत्यादौ’ (अ० प० अ०) । ‘ओ वै शोषणे' (भ्वा० प० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः । ‘अक्षीवं वशिरे, शिग्रौ ना, मत्ते पुनरन्यवत्' इति विश्वः (मेदिनी) ॥