काञ्चनी

सुधाव्याख्या

काञ्चतेऽनया । ‘काचि दीप्त्यादौ' (भ्वा० आ० से०) । '-करणा-' (३.३.११७) इति ल्युट् । ‘टिड्ढा-’ (४.१.१५) इति ङीप् । 'काञ्चनः काञ्चनारे स्याच्चम्पके नागकेसरे । उदुम्बरे च धत्तूरे, हरिद्रायां तु काञ्चनी । क्लीबेऽब्जकेसरे हेम्नि' इति विश्वः (मेदिनी) ॥


प्रक्रिया

धातुः -


काचिँ दीप्तिबन्धनयोः
काच् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
का + नुम् + च् - इदितो नुम् धातोः 7.1.58
का + न् + च् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कांच् - नश्चापदान्तस्य झलि 8.3.24
काञ्च् - अनुस्वारस्य ययि परसवर्णः 8.4.58
काञ्च् + ल्युट् - करणाधिकरणयोश्च 3.3.117
काञ्च् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
काञ्च् + अन - युवोरनाकौ 7.1.1
काञ्चन + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
काञ्चन + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
काञ्चन् + ई - यस्येति च 6.4.148
काञ्चनी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
काञ्चनी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
काञ्चनी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
x000D