वसिरम्

सुधाव्याख्या

वसनम् । 'वसु स्तम्भे' (दि० प० से०) । इन् (उ० ४.११८) । वसिं राति ‘रा दाने' (अ० प० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः । ‘वश कान्तौ (अ० प० से०) । इन् (उ० ४.११८) । वशिं राति । ‘वशिरः पुमान् । किणिहीहस्तिपिप्पल्योः क्लीबेऽब्धिलवणे स्मृतः' (इति मेदिनी) ॥