मसूरः

सुधाव्याख्या

मस्यति, मस्यते वा । ‘मसी परिणामे’ (दि० प० से०) । ‘मसेरुरन्’ (उ० ५.३.) इत्यूरनि दीर्घमध्यः । -‘खर्जिपिञ्जादिभ्य ऊरोलचौ’ (ऊ ४.९०) इत्यूरः - इति मुकुटस्त्वेतत्सूत्राज्ञानमूलकः । ‘मसेश्च’ (उ० १.४३) इत्युरनि ह्रस्वमध्यश्च । ‘वेश्यायां व्रीहिभेदे च मसूरा मसुरा स्त्रियाम् । मसूरमसुरौ पुंसि द्वावेतावपि चैतयोः’ इति रभसः ॥