मयुष्ठकः

सुधाव्याख्या

मिनोति । ‘डुमिञ् प्रक्षेपणे’ (स्वा० उ० अ०) । ‘भृमृशीङ्-’ (उ० १.७) इत्युः । मयश्चासौ स्थकश्च । मुकुटस्तु मयति । ‘मय गतौ’ (भ्वा० आ० से०) । ‘पुंसि-’ (३.३.११८) इति घः । मयो गन्ता । तस्य स्तकः प्रतिबन्धकः । ‘ष्टक प्रतिघाते’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । मयस्य स्तको मयष्ठकः । नैरुक्तो वर्णविकारः–इत्याह । तन्न । ‘मयते' इत्युदितत्वात् । घः (३.३.११८) अप्ययुक्तः । तस्य कर्तर्यविधानात् ॥