सर्षपः

सुधाव्याख्या

सेति । सरति स्नेहोऽस्मात् । ‘सृ गतौ’ (भ्वा० प० अ०) । ‘सर्तेरपः षुक्च’ (उ० ३.१४१) इत्यपः षुगागमश्च । ‘सर्षपः स्यात् सरिषपः कुटस्नेहश्च तन्तुभः’ इति त्रिकाण्डशेषः ॥