मकुष्ठकः

सुधाव्याख्या

अथेति । मङ्कति, मङ्क्यते वा । ‘मकि मण्डने’ (भ्वा० आ० से०) । बाहुलकादुः, नुमभावश्च । तिष्ठति । ‘ष्ठा गतिनिवृत्तौ’ (भ्वा० प० अ०) । क्वुन् (उ० २.३२) । मुकुटश्चासौ स्थकश्च । ‘पूर्वपदात्’ (८.३.१०६) इति षत्वम् । मुकुटस्तु आद्यचमुकारमाह । विश्वमेदिन्योस्तु ‘मुकुष्ठो व्रीहिभेदे स्यात् (मकुष्ठो मन्थरेऽन्यवत्’) इति टवर्गद्वितीयान्तः ॥


प्रक्रिया

धातुः -


मकिँ मण्डने
मक् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मकु - बाहुलकात् (उः नुमभावश्च) ।
ष्ठा गतिनिवृत्तौ
स्था - धात्वादेः षः सः 6.1.64, निमित्तापाये नैमित्तिकस्याप्यपायः । परिभाषा ।
स्था + क्वुन् - उणादिसूत्रम् ।
स्था + वु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
स्था + अक - युवोरनाकौ 7.1.1
स्थ् + अक - आतो लोप इटि च 6.4.64
मकु + सु + स्थक + सु - कर्मधारयः ।
मकुस्थक - सुपो धातुप्रातिपदिकयोः 2.4.71
मकुष्ठक
मकुष्ठक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मकुष्ठक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मकुष्ठक + रु - ससजुषो रुः 8.2.66
मकुष्ठक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मकुष्ठकः - खरवसानयोर्विसर्जनीयः 8.3.15
x000D