कदम्बकः

सुधाव्याख्या

कन्दति, कन्दयति वा । ‘कदि हिंसायाम् (कदि आह्वाने रोदने च’ (भ्वा० प० अ०) । ‘कृकदिकडिकटिभ्योऽम्बच्’ (उ० ४.८२) । अनित्यत्वान्न नुम् । स्वार्थे कन् । (ज्ञापि० ५.४.५) ॥