शरः

सुधाव्याख्या

शृणाति । अनेन वा । ‘शॄ हिंसायाम्' (क्र्या० प० से०) । 'ऋदोरप्' (३.३.५७) वा । ‘शरस्तु तेजने बाणे दध्यग्रे ना शरं जले’ इति विश्वमेदिन्यौ । दन्त्यादिपाठे तु । सरति । ‘सृ गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । (बाणः स्यादस्त्रकण्टकः । स्थूलक्ष्वेडो विपाटश्च) चित्रपुङ्खः शरः सरः । (पत्त्रवाहो विकर्षः)’ इति त्रिकाण्डशेषात् ॥