वाजः

सुधाव्याख्या

वजत्यनेन । 'वज गतौ’ (भ्वा० प० से०) ‘हलश्च’ (३.३.१२१) निष्ठायां सेट्त्वान्न कुत्वम् । वाजयति वा ण्यन्तः । पचाद्यच् (३.१.१३४) न्यङ्क्वादित्वात् (७.३.५३) अकुत्वम् इति मुकुटश्चिन्त्यः । (‘वाजो निस्वनपक्षयोः । वेगे पुमानथ क्लीबे घृतयज्ञात्रन्नवारिषु' इति मेदिनी) ॥