प्रक्ष्वेडनः

सुधाव्याख्या

प्रेति । प्रकर्षेण क्ष्वेदन्ते । ‘ञिक्ष्विदा अव्यक्ते शब्दे’ (भ्वा० आ० से०) ल्युः (३.१.१३४) । पृषोदरादिः (६.३.१०९) ॥


प्रक्रिया

धातुः -


ञिष्विदाँ अव्यक्ते शब्दे
प्र + क्ष्विद् - आदिर्ञिटुडवः 1.3.5, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्र + क्ष्विद् + ल्यु - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
प्र + क्ष्विद् + यु - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
प्र + क्ष्विद् + अन - युवोरनाकौ 7.1.1
प्र + क्ष्वेद् + अन - पुगन्तलघूपधस्य च 7.3.86
प्रक्ष्वेडन - पृषोदरादीनि यथोपदिष्टम् 6.3.109
प्रक्ष्वेडन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रक्ष्वेडन + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रक्ष्वेडन + रु - ससजुषो रुः 8.2.66
प्रक्ष्वेडन + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रक्ष्वेडनः - खरवसानयोर्विसर्जनीयः 8.3.15