नाराचः

सुधाव्याख्या

नरानाचामन्ति । ‘अन्येभ्योऽपि (वा० ३.२.१०१) इति डः । प्रज्ञाद्यण् (५.४.३८) । यद्वा नराणां समूहो नारम् । नारमाचामति । डः (वा० ३.२.१०१) ॥


प्रक्रिया

धातुः -


चमुँ अदने
चम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नर + आ + शस् + चम् + ड - अन्येभ्योऽपि दृश्यते (3.2.101) । वार्तिकम् ।
नर + आ + चम् + ड - सुपो धातुप्रातिपदिकयोः 2.4.71
नर + आ + चम् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
नर + आ + च् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः ।
नराच - अकः सवर्णे दीर्घः 6.1.101
नराच + सु + अण् - प्रज्ञादिभ्यश्च 5.4.38
नराच + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
नराच + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
नराच् + अ - यस्येति च 6.4.148
नाराच - तद्धितेष्वचामादेः 7.2.117
नाराच + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
नाराच + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नाराच + रु - ससजुषो रुः 8.2.66
नाराच + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नाराचः - खरवसानयोर्विसर्जनीयः 8.3.15