वडवा

सुधाव्याख्या

बलं सामर्थ्यमतिशयितमस्याः । ‘अन्येभ्योऽपि-' (वा० ५.२.१०९) इति वः । बलं वाति वा । ‘आतोऽनुप-’ (३.२.३) इति कः । बलेन वजति वा । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । डलयोरेकत्वम् । ‘वडवा द्विजयोषिति । अश्वायां कुम्भदास्यां च नारीजात्यन्तरेऽपि च’ (इति मेदिनी) ॥