वाडवम्

सुधाव्याख्या

वेति । वडवानां समूहः । ‘खण्डिकादिभ्यश्च’ (४.२.४५) इत्यञ् । ‘वाडवं करणे स्त्रीणां घोटिकौघे नपुंसकम् । पाताले न स्त्रियां पुंसि ब्राह्मणे वडवानले’ (इति मेदिनी) ॥