रथ्यः

सुधाव्याख्या

रेति । रथं वहति । ‘तद्वहति रथयुगप्रासङ्गम्' (४.४.७६) इति यत् । ‘रथ्या रथौघविशिखावर्तनीषु च योषिति । रथवोढरि पुंलिङ्गः’ (इति मेदिनी) ॥