वामी

सुधाव्याख्या

वेति । वामयति । 'टु वम उद्गिरणे’ (भ्वा० प० से०) । स्वार्थण्यन्तः । अच् (३.१.१३४) । ‘मितां ह्रस्वः’ (६.४.९२) इत्यत्र ‘वा’ इत्यनुवृत्तेर्न ह्रस्वः । गौरादिः (४.१.४१) । यद्वा वं वरुणममति । तेनाम्यते वा । ‘अम गत्यादिषु' (भ्वा० प० से०) । 'कर्मण्यण्' (३.३.१) । घञ् (३.३.१९) वा । मुकुटस्तु वमत्युद्गिरति गर्भम् । ‘ज्वलिति-’ (३.१.१४०) इति णः –इत्याह । तन्न । 'नोदात्तोपदेशस्य-’ (६.३.३४) इति वृद्धिनिषेधात् । ‘वामी शृगालीवडवारासभीकरभीषु च’ । (इति मेदिनी) ॥


प्रक्रिया