किशोरः

सुधाव्याख्या

वेति । कशति । ‘कश शब्दे' । किंचिच्छवति वा । ‘शु गतौ' (भ्वा० प० अ०) । ‘शव गतौ' (भ्वा० प० से०) वा । किशोरादयः’ (उ० १.६५) इति साधुः । (‘अथ किशोरोऽश्वस्य शावके । तैलपर्ण्यौषधौ च स्यात्तरुणवस्थसूर्ययोः’ (इति मेदिनी) ॥