रोम

सुधाव्याख्या

रोहति । ‘नामन् सीमन् व्योमन् रोमन् लोमन्’ (उ० ४.१५१) । इति साधु । यद्वा रूयते । ‘रु शब्दे’ (अ० प० अ०) । मनिन् (३.२.७५) । कपिलकादित्वात् (वा० ८.२.१८) लत्वम् । लूयते वा । मनिन् (३.२.७५) ॥