आकल्पः

सुधाव्याख्या

आकेति । आकल्पनम् । ‘कृपू सामर्थ्ये’ (भ्वा० आ० से०) । घञ् (३.३.१८) । ‘कृपो रो लः’ (८.२.१८) । अकल्प्यते वा । आकल्पयति वा । स्वार्थण्यन्तः । अच् (३.१.१३४) । ‘आकल्पः कल्पने वेशे’ (इति मेदिनी) ॥