श्मश्रुम्

सुधाव्याख्या

तदिति । तस्य वृद्धिस्तस्याम् । श्म मुखं श्रयति । ‘श्रिञ् सेवायाम्’ (भ्वा० उ० से०) । श्मनि मुखे श्रूयते । ‘श्रु श्रवणे’ (भ्वा० प० से०) मितद्र्वादित्वात् । (वा० ३.२.१८०) डुः । सम्पदादिक्विप् (वा ३.३.१०८) वा । आगमशास्त्रस्यानित्यत्वान्न तुक् ॥


प्रक्रिया

धातुः -


श्रिञ् सेवायाम्
श्रि - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
श्म + अम् + श्रि + डु - डुप्रकरणे मितद्र्वादिभ्य उपसंख्यानम् (3.2.180) । वार्तिकम्, उपपदमतिङ् 2.2.19
श्म + श्रि + डु - सुपो धातुप्रातिपदिकयोः 2.4.71
श्म + श्रि + उ - चुटू 1.3.7, तस्य लोपः 1.3.9
श्म + श्र् + उ - टेः 6.4.143
श्मश्रु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
श्मश्रु - स्वमोर्नपुंसकात्‌ 7.1.23