दूषिका

सुधाव्याख्या

द्विति । दूषयति । 'दुष वैकृत्ये' (दि० प० अ०) ण्यन्तः । दोषो ण' (६.४.९०) इत्युत्वम् । ण्वुल् (३.१.१३३) । ‘अच इः’ (उ० ४.१३९) । ‘कृत्’ (ग० ४.१४५) इति ङीष् वा । स्वार्थे कन् (ज्ञापि० ५.४.५) अपि । पिच्चोण्डकं नेत्रमलं दूषी च दूषिकापि च’ इति वाचस्पतिः । ‘कषिदूषिभ्यामीकन्’ (उ० ४.१६) इति ‘दूषीका’ अपि ॥


प्रक्रिया

धातुः -


दुषँ वैकृत्ये
दुष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दुष् + णिच् - हेतुमति च 3.1.26
दुष् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
दूष् + ण + इ - दोषो णौ 6.4.90
दूष् + अ + इ - चुटू 1.3.7, तस्य लोपः 1.3.9
दूष् + इ + ण्वुल् - ण्वुल्तृचौ 3.1.133
दूष् + ण्वुल् - णेरनिटि 6.4.51
दूष् + वु - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
दूष् + अक - युवोरनाकौ 7.1.1
दूष् + इ + क - अच इः (४.१३९) । उणादिसूत्रम् ।
दूषिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
दूषिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
दूषिका - अकः सवर्णे दीर्घः 6.1.101
दूषिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दूषिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दूषिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68