प्रस्रावः

सुधाव्याख्या

प्रस्रूयते । ‘स्नु प्रस्रवणे’ (भ्वा० प० अ०) । ‘प्रे द्रुस्तुस्रुवः’ (३.३.२७) इति घञ् । करणे तु परत्वाल्ल्युट्प्रसङ्गः॥