लाला

सुधाव्याख्या

लालयते । ‘लल ईप्सायाम्’ चुरादिः । अच् (३.१.१३४) ॥


प्रक्रिया

धातुः -


ललँ ईप्सायाम्
लल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लल् + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
लल् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
लाल् + इ - अत उपधायाः 7.2.116
लाल् + इ + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
लाल् + अच् - णेरनिटि 6.4.51
लाल् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
लाल + टाप् - अजाद्यतष्टाप्‌ 4.1.4
लाल + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
लाला - अकः सवर्णे दीर्घः 6.1.101
लाला + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
लाला + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लाला - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68