गाणिक्यम्

सुधाव्याख्या

गेति । गणिकानां समूहः । ‘गणिकायाश्च यञ् वाच्यः’ (वा० ४.२.४०) ॥


प्रक्रिया

धातुः -


गणिका + आम् + यञ् - गणिकाया 'यञ्' इति वक्तव्यम् (4.2.40) । वार्तिकम् ।
गणिका + यञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
गणिका + य - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
गणिक् + य - यस्येति च 6.4.148
गाणिक्य - तद्धितेष्वचामादेः 7.2.117
गाणिक्य + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गाणिक्य + अम् - अतोऽम् 7.1.24
गाणिक्यम् - अमि पूर्वः 6.1.107