गार्भिणम्

सुधाव्याख्या

गर्भिणीनां समूहः । ‘भिक्षादिभ्योऽण्’ (४.२.३८) । ‘भस्याढे तद्धिते’ (वा० ६.३.३५) इति पुंवद्भावः । ‘नस्तद्धिते’ (६.४.१४४) इति टेर्लोपे प्राप्ते ‘इनण्यनपत्ये’ (६.४.१६४) इति प्रकृतिभावः ॥


प्रक्रिया

धातुः -


गर्भिणी + आम् + अण् - भिक्षादिभ्योऽण् 4.2.38
गर्भिणी + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
गर्भिणी + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
गर्भिण् + अ - यस्येति च 6.4.148
गर्भिण - भस्याढे तद्धिते (6.3.35) । वार्तिकम् ।
गार्भिण - तद्धितेष्वचामादेः 7.2.117
गार्भिण + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गार्भिण + अम् - अतोऽम् 7.1.24
गार्भिणम् - अमि पूर्वः 6.1.107