अन्तर्वत्नी

सुधाव्याख्या

अन्तरस्त्यस्यां गर्भः । ‘अन्तर्वत्पतिवतोर्नुक्’ (४.१.३२) इति साधुः ॥


प्रक्रिया

धातुः -


अन्तर् + सु + मतुप् - अन्तर्वत्पतिवतोर्नुक् 4.1.32
अन्तर् + मतुप् - सुपो धातुप्रातिपदिकयोः 2.4.71
अन्तर्मत् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अन्तर्वत् - मादुपधायाश्च मतोर्वोऽयवादिभ्यः 8.2.9
अन्तर्वत् + नुक् - अन्तर्वत्पतिवतोर्नुक् 4.1.32
अन्तर्वत् + न् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अन्तर्वत्न् + ङीप् - ऋन्नेभ्यो ङीप्‌ 4.1.5
अन्तर्वत्न् + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
अन्तर्वत्नी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अन्तर्वत्नी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अन्तर्वत्नी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68